स य एवंवित् । अस्मात् लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं
प्राणमयम् आत्मानमुपसङ्क्रामति । एतं मनोमयम् आत्मानमुपसङ्क्रामति । एतं
विज्ञानमयमात्मानम् उपसङ्क्रामति । एतम् आनन्दमयमात्मानम् उपसङ्क्रामति ॥ - तैत्तिरीयोपनिषत् २-८-५

आत्मवित् ज्ञानी अस्मात् लोकात् प्रेत्य अन्नमयम् आत्मानम् उपसङ्क्रामति, अनन्तरं प्राणमयं
मनोमयं, विज्ञानमयम् आनन्दमयं च आत्मानम् उपसङ्क्रामति ।

‘ब्रह्मवित मोक्षम् आप्नोति’ इति हि तैत्तिरीयोपनिषत् प्रारम्भे उपदिशति । यः ब्रह्म आत्मत्वेन जानीयात्
सः ब्रह्मैव विन्दते इति प्रारभ्य अत्र उपनिषदि अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयश्च
इति अनात्मभूताः पञ्चकोशाः उपदिष्टाः । पञ्चाप्येतान् कोशान् आत्मज्ञानी अतीत्य पञ्चकोशास्पदे पञ्चकोशविलक्षणे
आत्मस्वरूपे तिष्ठति । यतः एते कोशा अनात्मभूताः । आत्मज्ञान बलेन पञ्चकोशातीतः आत्मवित् ब्रह्मण्येव
अवतिष्ठते । अयं हि जीवन्मुक्तः, कृतकृत्योऽयम् ॥

"https://sa.wikiquote.org/w/index.php?title=स_य_एवंवित्_।_अस्मात्...&oldid=16415" इत्यस्माद् प्रतिप्राप्तम्