करतले स्थापितस्य आमलकफलस्य सर्वविधं ज्ञानं भवति । एवं यस्य कस्यचिद् विषयस्य स्पष्टं ज्ञानं जातं चेत् हस्तामलक वत् भवति इति वदन्ति । यथा – ब्रह्मणः साक्षाद् उपलब्ध्ययर्थमुपासपनार्थं च हृदयाकाशः स्थानमुच्यते शालग्राम इव विष्णोः तस्मिन् हि ब्रह्मणा उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षाद् उपलभ्यते पाणौ इव आमलकम् (शाङ्करभाष्य- तैत्तिरीयोपनिषद् – उपोद्धाते ) सा. २८०

"https://sa.wikiquote.org/w/index.php?title=हस्तामलकन्यायः&oldid=11387" इत्यस्माद् प्रतिप्राप्तम्