हिमगिरे: शृङ्गम्...


हिमगिरे: शृङ्गम्, देवनदीं गङ्गाम्

मनसि निधाय हि अनुभवाम:
अनुपममुत्तुङ्गं भावम्, अनुपममुत्तुङ्गम् ॥


दिव्य-सनातन-संस्कृति:
यतो हि वेदपुराणानि ।
हिन्दोरुन्नत्यवनत्यो:
सदृशानिऽ गिरिशिखराणि ।
भीरुमनस्स्वपि धीरस्वभावं
जनयेयुर्हिमभवनानि ॥१॥


तं सुरलोकमतिक्रम्य
अवतीर्णा या भागीरथी ।
भारतमातु: सङ्गेन
पुण्या जाता भाग्यवती ।
हिन्दूदेशे प्रतिजनमनस:
पावनकारिणी पुण्यवती ॥२॥


पराजयोऽपि सोपानं
धैर्यं विजयस्य निदानम्
गच्छतु दु:खित-बन्धुभ्यो
वक्तुं धैर्य-समाधानम् ।
मातु: गौरवपरिरक्षायै

निष्ठं तनुहृद्धनप्राणम् ॥३॥
- नारायणभट्टः


"https://sa.wikiquote.org/w/index.php?title=हिमगिरे:_शृङ्गम्...&oldid=15205" इत्यस्माद् प्रतिप्राप्तम्