चित्रिताङ्गजम्बुकन्यायः

(२७२. चित्रिताङ्गजम्बुकन्यायः इत्यस्मात् पुनर्निर्दिष्टम्)

एकदा एकः जम्बुकः स्वशरीरस्य उपरि व्याघ्रस्य इव विविधवर्णयुक्ताः रेखाः चित्रयित्वा स्वयं व्याघ्र इव अभिनयति स्म । परन्तु बाह्यवेषेणा जम्बुकः व्याघ्रो भवेत् किम् ? तथैव समाजे केचन नीचाः अपि महताम् इव वेषभूषादिकं धृत्वा स्वयं महताम् अभिनयं कुर्वन्ति । परन्तु अन्तः स्थः स्वभावः तथैव वर्तते ।

एवं स्वभावं गोपयित्वा अन्यदिव दर्शयितुम् उद्युक्तस्य विषये अस्य न्यायस्य प्रयोगो भवति ।