विद्या
विद्याविषयकानि सुभाषितानि
सम्पाद्यताम्अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।
अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥
अन्नदानं श्रेष्ठं दानम् । किन्तु ततोपि श्रेष्ठं विद्यादानम् । अन्नदानेन या तृप्तिः भवति सा क्षणिका। किन्तु विद्यया प्राप्यमाणा तृप्तिः आजीवनं तिष्ठति ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
प्रतिक्षणं विद्या अर्जनीया । प्रतिकणमपि धनं सङ्ग्रहणीयम् । एकं क्षणं व्यर्थं भवति चेदपि तावता प्रमाणेन विद्या न्यूना जाता इत्येव । कणमेकं न्यूनं भवति चेदपि तावत् धनं न्यूनम् इत्येव ।
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ हितोपदेशः ३९
रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते । विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति । विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति ।
इतोपि...
महाभारते विद्या
सम्पाद्यताम्अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः॥ उद्योग. ४०/४॥
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च।
स्तब्धता चाभीमानित्वं तथात्यागित्वमेव च।
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः॥ उद्योग. ४०/५॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥ उद्योग. ४०/६॥
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्।
सुवर्णमपि चामेध्यादाददीताविचारयन्॥ शान्ति. १६५/३१॥
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः॥ शान्ति. ३२९/६॥
इतोपि...
स्मृतिषु विद्या
सम्पाद्यताम्यथा खनन् खनित्रेण
नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां
शुश्रूषुरधिगच्छति ॥
मनुस्मृतिः, २/१९३
२. वेदस्याध्ययनं नित्यं
धर्मशास्त्रस्य चापि यत् ।
अजानतोऽर्थं तत्सर्वं
तुषाणां कण्डनं यथा ॥
लघुव्यासस्मृतिः , नित्याचारप्रदीपः भागः २, पृ. ५४
३. विद्याधनं तु यद्यस्य
तत्तस्यैव धनं भवेत् ।
मनुस्मृतिः,९/२०६
४. श्रुतिप्रमाण्यतो विद्वान्
स्वधर्मे निविशेत वै ।
मनुस्मृतिः २/८
विद्याप्रशंसा
सम्पाद्यताम्न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनात् प्रधानम् ॥
विद्या ददाति विनयम्
विनयाद्याति पात्रताम् ।
पात्रात्वाद्धनमाप्नोति
धनाद्धर्मं ततः सुखम् ॥
आचार्यात् पादमादत्ते
पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः
पादं कालक्रमेण तु ॥
इतोपि...