Dwitikrushnapanigrahi
Dwitikrushnapanigrahi १ जून् २०१९ से सदस्य हैं
किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते |
नग्नक्षपणके देशे रजकः किं करिष्यति ||
यस्मिन् स्थाने श्रोतारः न भवन्ति तत्र कथावाचकस्य आवश्यकता का ? यस्मिन् देशे साधवः वस्त्रमेव न धरन्ति तत्र रजकस्य आवश्यकता न भवति ननु |
दाता दरिद्रः कृपणो धनाढ्यः
पापी चिरायुः सकृती गतायुः|
परेषु सख्यं स्वजनेषु वैरं
पश्यन्तु लोकाः कलि कौतुकानि ||
यः दानं ददाति सः दरिद्रः अभवत् , कृपणः (धनसञ्चेता) सः धनिकः अभवत्, पापी दीर्घायुः अवाप्नोत्, कर्मठः (परोपकारी) तस्य आयुः क्षीणम् अवाप्नोत् | परजनेषु मित्रवत् वयवहारः स्ववान्धवेषु शत्रुवत् व्यवहारः अयं कलियुगे जनाः कलिप्रतापेन आहताः एव सन्ति |