शुभा अहं संस्कृतभारत्याः बेङ्गलूरुकार्यालये अक्षरे विकिपीडियाप्रकल्पे कार्यरता अस्मि । विकिसूक्त्तौ कार्यकरणं नाम निरन्तरं सज्जनसङ्गप्राप्तिः इति मे भाति । भवन्तः अपि अत्र कार्यरताः भवन्तु, मया प्राप्यमाणं समग्रम् आनन्दं प्राप्नुवन्तु इति आशासे ।

पृष्ठसमावेशरीतिं ज्ञातुकाम: सम्पाद्यताम्

मान्ये, प्रणाम:।
विकिसूक्तौ छन्दोऽनुगुणम् इति अस्मिन् वर्गे पृष्ठानि समावेशयितुम् इच्छामि परं कर्तुं रीतिं न जानामि।अधुना विकिसूक्ति: छन्दोऽनुगुणम् इति पृथक् तथा सर्वथा अनुबन्धरहितं पृष्ठं महता प्रयासेन कथंचिद् मया निर्मितम्। अग्रे भवत्या: सकाशात् साहाय्यं प्रार्थये।Charunandan16 (सम्भाषणम्) १५:१२, १२ अक्तूबर २०१४ (IST)

भवतः सम्भाषणपृष्ठं पश्यतु कृपया । - Shubha (सम्भाषणम्) १५:४१, १५ अक्तूबर २०१४ (IST)

अनुष्टुप् वर्ग: अथवा उपवर्ग: कथं निर्मातव्य: सम्पाद्यताम्

आर्ये, प्रणाम:।मार्गदर्शनार्थं धन्यवादा: च।
१ सुभाषितं पृथग् योजनीयम् इति विषय: ज्ञात:।
२ 'अनुष्टुप्-छन्दसि सुभाषितानि' ........ इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति । इति भवत्या लिखितं, तत्तु न अवगतम्।मया अनुष्टुप् इति पृष्ठं निर्मितं तत्र छन्दोनुगुणं सुभाषितानि इति वर्गस्य उल्लेख: कृत: तथापि तस्मिन् वर्गे ‘अनुष्टुप्’ उपवर्गरूपेण नैव आगच्छति, पृष्ठरूपेणैव दृश्यते।अनुष्टुप् वर्ग: अथवा उपवर्ग: कथं निर्मातव्य: इति मम समस्या।भवत्या: सकाशात् समाधानं प्रार्थये।
३ अपर: कश्चन विषय:। मम कृते सङ्गणके टङ्कनं तथा विकिषु तस्य आरोपणम् आगामिनि काले अशक्यप्रायं भविष्यति इति दृश्यते।विकिमाध्यमेन संस्कृतकार्यस्य तु अनिवारा इच्छा विद्यते।मया यदि लेखनं हस्तलिखितरूपेण दीयते, तर्हि तस्य टङ्कनं तथा विकिषु आरोपणं कर्तुं काचिद् व्यवस्था अस्ति वा? तथा अस्ति चेद् मम महत् सौकर्यं भविष्यति।
धृष्टता मे क्षम्यताम्।Charunandan16 (सम्भाषणम्) ०९:१९, २१ अक्तूबर २०१४ (IST)

भवतः सम्भाषणपृष्ठं पश्यतु कृपया - Shubha (सम्भाषणम्) १८:४१, ३१ दिसम्बर २०१४ (IST)
"https://sa.wikiquote.org/w/index.php?title=सदस्यः:Shubha&oldid=14600" इत्यस्माद् प्रतिप्राप्तम्