हे चतुर, वद उत्तरम् !
|
अस्थि नास्ति शिरो नास्ति
बाहुरस्ति निरङ्गुलिः।
नास्तिपादद्वयं बाढम्
अङ्गमालिङ्गति स्वयम्॥
अस्थि नास्ति, मस्तकम् अस्ति, बाहुः अस्ति किन्तु अङ्गुली नास्ति ।
पादौ न विद्यतः किन्तु शरीरं दृढम् आलिङ्गति ।
|
|
|
|
|
एको हि दोषो गुणसन्निपाते निमज्जीतीन्दोरिति यो बभाषे ।
न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥
‘गुणानां समूहे स्थितः एकः दोषः प्राधान्येन न भासते । चन्दे्र यद्यपि कलङ्कः अस्ति, तथापि शोभातिशयकारणतः सः हानिकारकत्वेन न परिगण्यते’ इति कालिदासः उक्तवान् । तं निन्दति कश्चन दारिद्र्यपीडितः कविः - ‘‘सः यद्यपि महाकविः, तथापि प्रपञ्चं समग्रं न परिशीलितवान् । दारिद्र्यरूपः दोषः अस्ति चेत् गुणसमूहे तस्य अदर्शनं दूरे तिष्ठतु, सः एकः एव कोटिगुणान् अपि अपहरति । अतः अनन्तगुणानां खनी अपि कश्चित् यदि निर्धनः भवति तर्हि सः अल्पाम् अपि पूजां न प्राप्नोति’’ इति ।
|
|
|
|