हे चतुर, वद उत्तरम् !
|
दन्तेर्हीनः शिलाभक्षी निर्जीवो बहुभाषकः ।
गुणास्यूति समृद्धोऽपि पर पादेन गच्छति॥
दन्ताः न विद्यन्ते चेदपि शिलाः खादति । जीवः नास्ति चेदपि बहु सम्भाषणं करोति ।
बहुभिः गुणैः युक्तश्चेदपि अन्यान् अनुसरति । किं स्यात् ?
|
|
|
|
|
वत्से मा गा विषादं श्वसनमुरजवं सन्त्यजोर्ध्वप्रवृत्तम् ।
कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद् वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥
लक्ष्म्याः स्वयंवरः प्रचलत् आसीत् । लक्ष्म्याः पिता सागरः तु स्वपुत्रीं विष्णवे दातुम् इच्छति । तां परिणेतुम् इच्छवः इन्द्रादयः अपि उपस्थिताः आसन् सभायाम् । ते स्वपुत्र्याः यया न अङ्गीकृताः स्युः तथ् करणीया आसीत् तेन । अतः सः पुत्र्याः भीतिं निवारयन् इव वदति - ‘वत्से ! विषादः मास्तु । दीर्घश्वासः अपि मास्तु भवत्याः । गुरुः कम्पोऽपि मास्तु बलमित् जृम्भिमत् अपि मास्तु’’ इति । तस्य तात्पर्यम् एवं भवति - ‘‘विषादः - विषसेवी शिवः मास्त, श्वसनं- वायुः मास्तु, कस्य-जलस्य पाता रक्षकः वरुणः मास्तु, गुरुः - बृहस्पतिः अपि मास्तु, बलमित् - बलनामकस्य राक्षस्य संहर्ता इन्द्रः मास्तु, अत्र विष्णुसमीपम् आगच्छतु’’ इति । एवम् उपायेन पुत्र्याः विवाहं निर्णीतवान् सागरः भवतां पापं निवरयतु ।
|
|
|
|